वांछित मन्त्र चुनें

प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् । नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिन्द्रो॑ अपीपतत् ॥

अंग्रेज़ी लिप्यंतरण

pra nūnaṁ dhāvatā pṛthaṅ neha yo vo avāvarīt | ni ṣīṁ vṛtrasya marmaṇi vajram indro apīpatat ||

पद पाठ

प्र । नू॒नम् । धा॒व॒त॒ । पृथ॑क् । न । इ॒ह । यः । वः॒ । अवा॑वरीत् । नि । सी॒म् । वृ॒त्रस्य॑ । मर्म॑णि । वज्र॑म् । इन्द्रः॑ । अ॒पी॒प॒त॒त् ॥ ८.१००.७

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:7 | अष्टक:6» अध्याय:7» वर्ग:5» मन्त्र:1 | मण्डल:8» अनुवाक:10» मन्त्र:7